नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां परश्रेयोदायै कमलचरणध्यानमनसां । सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणैः दयार्द्रायै देव्यै दुरितदलनोद्दण्ड मनसे ॥ ८ ॥
परं मातस्ते यो जपति मनुमेवोग्रहृदयः कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् । अपि प्रायो रम्याऽमृतमयपदा तस्य ललिता नटी चाद्या वाणी नटन रसनायां च फलिता ॥ ९ ॥
तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं सदा मन्त्रं मातर्नहि भवति तेषां परिभवः । कदम्बानां माल्यैरपि शिरसि युञ्जन्ति यदि ये भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ १० ॥
सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये सहस्रं नामोक्त्वा तदपि च तवाङ्गे मनुमितं । पृथङ्नाम्ना तेनायुतकलितमर्चन्ति प्रसृते सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ ११ ॥
लसल्लोलश्रोत्राभरणकिरणक्रान्तिललितं मितस्मेरज्योत्स्नाप्रतिफलितभाभिर्विकरितं । मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ १३ ॥
परः श्रीमातङ्ग्या जपति हृदयाख्यः सुमनसाम्- अयं सेव्यः सुद्योऽभिमतफलदश्चातिललितः । नरा ये शृण्वन्ति स्तवमपि पठन्तीममनुनिशं न तेषां दुष्प्राप्यं जगति यदलभ्यं दिविषदाम् ॥ १४ ॥