श्री भगवच्छरण स्तोत्र/Shri Bhagavachharana Stotra
(श्री भगवच्छरण स्तोत्र/Shri Bhagavachharana Stotra)
सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे ।
मायानिर्मितविश्वाय महेशाय नमो नम: ।।1।।
रोगा हरन्ति सततं प्रबला: शरीरं कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन् दिनानि तस्मात्त्वमध शरणं मम दीनबन्धो ।।2।।
देहो विनश्यति सदा परिणामशीलश्चित्तं च खिधति सदा विषयानुरागि ।
बुद्धि: सदा हि रमते विषयेषु नान्तस्तस्मात्. ।।3।।
आयुर्विनश्यति यथामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्री: ।
वृद्धा प्रधावति यथा मृगराजपत्नी । तस्मात्. ।।4।।
आयाद्व्ययो मम भवत्यधिकोऽविनीते कामादयो हि बलिनो निबला: शमाधा: ।
मृत्युर्यदा तुदति मां बत किं वदेयं । तस्मात्. ।।5।।
तप्तं तपो न हि कदापि मयेह तन्वा वाण्या तथा न हि कदापि तपश्च तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि । तस्मात्. ।।6।।
स्तब्धं मनो मम सदा न हि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् ।
वाचा तथैव न वदेन्मम सौम्यवाणीं । तस्मात्. ।।7।।
सत्त्वं न मे मनसि याति रजस्तमोभ्यां विद्धे तथा कथमहो शुभकर्मवार्ता ।
साक्षात्परम्परतया सुखसाधनं तत्तस्मात. ।।8।।
पूजा कृता न हि कदापि मया त्वदीया मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा ।
चित्तं न मे स्मरति ते चरणौ ह्रावाप्य । तस्मात्. ।।9।।
यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो ज्ञानस्य साधनगणो न विवेकमुख्य: ।
ज्ञानं क्व साधनगणेन विना क्व मोक्षस्तस्मात्. ।।10।।
सत्संगतिर्हि विदिता तव भक्तिहेतु: साप्यद्य नास्ति बत पण्डितमानिनो मे ।
तामन्तरेण न हि सा क्व च बोधवार्ता । तस्मात्. ।।11।।
दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियं विषयीकरोति ।
शान्ति: कुतो मम भवेत्समता न चेत्स्यात्तस्मात्. ।।12।।
मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करुणा मुदिता च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात्. ।।13।।
नेत्रादिकं मम बहिर्विषयेषु सक्तं नान्तर्मुखं भवति तानविहाय तस्य ।
क्वांतर्मुखत्वमपहाय सुखस्य वार्ता । तस्मात्. ।।14।।
त्यक्तं गृहा द्यपि मया भवतापशान्त्यै नासीदसौ ह्रतह्रदो मम मायया ते ।
सा चाधुना किमु विधास्यति नेति जाने । तस्मात्. ।।15।।
प्राप्ता धनं ग्रहकुटुंबगजाश्वदारा राज्यं यदैहिकमठेन्द्रपुरश्च नाथ ।
सर्वं विनश्वरमिदं न फलाय कस्मै । तस्मात. ।।16।।
प्राणान्निरुध्य विधिना न कृतो हि योगो योगं विनास्ति मनस: स्थिरता कुतो मे ।
तां वै विना मम न चेतसि शान्तिवार्ता । तस्मात्. ।।17।।
ज्ञानं यथा मम भवेत्क्रपया गुरुणां सेवां तथा न विधिनाकरवं हि तेषाम् ।
सेवापि साधनतयाविदितास्ति चित्ते । तस्मात्. ।।18।।
तीर्थादिसेवनमहो विधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् ।
शुद्धिं विना न मनसोऽवगमापवर्गौ । तस्मात्. ।।19।।
वेदांतशीलनमपि प्रमितिं करोति ब्रह्मात्मन: प्रमितिसाधनसंयुतस्य नैवास्ति साधनलवो मयि नाथ तस्यास्तस्मात्. ।।20।।
गोविन्द शंकर हरे गिरिजेश मेश शम्भो जनार्दन गिरीश मुकुन्द साम्ब ।
नान्या गतिर्मम कथञ्चन वां विहाय तस्मात्प्रभो मम गति: कृपया विधेया ।।21।।
एवं स्तवं भगवदाश्रयणाभिधानं य मानवा: प्रतिदिनं प्रणता: पठन्ति ।
ते मानवा: भवरतिं परिभूय शान्तिं गच्छन्ति किं च परमात्मनि भक्तिमद्धा ।।22।।