श्री विश्वावसु गन्धर्व स्तोत्र हिंदी पाठ
Vishwavasu Gandharv Stotra in Hindi
प्रणाम-मन्त्रः- ॐ श्रीगणेशाय नमः ।। ॐ श्रीगणेशाय नमः ।। ॐ श्रीगणेशाय नमः ।। ॐ श्रीसप्त-श्रृंग-निवासिन्यै नमः ।। ॐ श्रीसप्त-श्रृंग-निवासिन्यै नमः ।। ॐ श्रीसप्त-श्रृंग-निवासिन्यै नमः ।। ॐ श्रीविश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय नमः ।। ॐ श्रीविश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय नमः ।। ॐ श्रीविश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय नमः ।।
।। पूर्व-पीठिका ।।
ॐ नमस्कृत्य महा-देवं, सर्वज्ञं परमेश्वरम् ।।
।। श्री पार्वत्युवाच ।।
भगवन् देव-देवेश, शंकर परमेश्वर ।
कथ्यतां मे परं स्तोत्रं, कवचं कामिनां प्रियम् ।।
जप-मात्रेण यद्वश्यं, कामिनी-कुल-भृत्यवत् ।
कन्यादि-वश्यमाप्नोति, विवाहाभीष्ट-सिद्धिदम् ।।
भग-दुःखैर्न बाध्येत, सर्वैश्वर्यमवाप्नुयात् ।।
।। श्रीईश्वरोवाच ।।
अधुना श्रुणु देवशि ! कवचं सर्व-सिद्धिदं ।
विश्वावसुश्च गन्धर्वो, भक्तानां भग-भाग्यदः ।।
कवचं तस्य परमं, कन्यार्थिणां विवाहदं ।
जपेद् वश्यं जगत् सर्वं, स्त्री-वश्यदं क्षणात् ।।
भग-दुःखं न तं याति, भोगे रोग-भयं नहि ।
लिंगोत्कृष्ट-बल-प्राप्तिर्वीर्य-वृद्धि-करं परम् ।।
महदैश्वर्यमवाप्नोति, भग-भाग्यादि-सम्पदाम् ।
नूतन-सुभगं भुक्तवा, विश्वावसु-प्रसादतः ।।
विनियोगः सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे ।
ॐ अस्यं श्री विश्वावसु-गन्धर्व-राज-कवच-स्तोत्र-मन्त्रस्य विश्व-सम्मोहन वाम-देव ऋषिः, अनुष्टुप् छन्दः, श्रीविश्वावसु-गन्धर्व-राज-देवता, ऐं क्लीं बीजं, क्लीं श्रीं शक्तिः, सौः हंसः ब्लूं ग्लौं कीलकं, श्रीविश्वावसु-गन्धर्व-राज-प्रसादात् भग-भाग्यादि-सिद्धि-पूर्वक-यथोक्त॒पल-प्राप्त्यर्थे जपे विनियोगः ।।
ऋष्यादि-न्यास:
विश्व-सम्मोहन वाम-देव ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीविश्वावसु-गन्धर्व-राज-देवतायै नमः हृदि, ऐं क्लीं बीजाय नमः गुह्ये, क्लीं श्रीं शक्तये नमः पादयो, सौः हंसः ब्लूं ग्लौं कीलकाय नमः नाभौ, श्रीविश्वावसु-गन्धर्व-राज-प्रसादात् भग-भाग्यादि-सिद्धि-पूर्वक-यथोक्त॒पल-प्राप्त्यर्थे जपे विनियोगाय नमः सर्वांगे ।।
षडङ्ग-न्यास-कर-न्यास-अंग-न्यास
ॐ क्लीं ऐं क्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः
ॐ क्लीं श्रीं गन्धर्व-राजाय क्लीं तर्जनीभ्यां नमः शिरसे स्वाहा
ॐ क्लीं कन्या-दान-रतोद्यमाय क्लीं मध्यमाभ्यां नमः शिखायै वषट्
ॐ क्लीं धृत-कह्लार-मालाय क्लीं अनामिकाभ्यां नमः कवचाय हुम्
ॐ क्लीं भक्तानां भग-भाग्यादि-वर-प्रदानाय कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट्
ॐ क्लीं सौः हंसः ब्लूं ग्लौं क्लीं करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट्
मन्त्रः- ॐ क्लीं विश्वावसु-गन्धर्व-राजाय नमः ॐ ऐं क्लीं सौः हंसः सोहं ऐं ह्रीं क्लीं श्रीं सौः ब्लूं ग्लौं क्लीं विश्वावसु-गन्धर्व-राजाय कन्याभिः परिवारिताय कन्या-दान-रतोद्यमाय धृत-कह्लार-मालाय भक्तानां भग-भाग्यादि-वर-प्रदानाय सालंकारां सु-रुपां दिव्य-कन्या-रत्नं मे देहि-देहि, मद्-विवाहाभीष्टं कुरु-कुरु, सर्व-स्त्री वशमानय, मे लिंगोत्कृष्ट-बलं प्रदापय, मत्स्तोकं विवर्धय-विवर्धय, भग-लिंग-रोगान् अपहर, मे भग-भाग्यादि-महदैश्वर्यं देहि-देहि, प्रसन्नो मे वरदो भव, ऐं क्लीं सौः हंसः सोहं ऐं ह्रीं क्लीं श्रीं सौं ब्लूं ग्लौं क्लीं नमः स्वाहा ।। (200 अक्षर, 12 बार जपें)
गायत्री मन्त्रः- ॐ क्लीं गन्धर्व-राजाय विद्महे कन्याभिः परिवारिताय धीमहि तन्नो विश्वावसु प्रचोदयात् क्लीं ।। (10 बार जपें)
ध्यान:-
क्लीं कन्याभिः परिवारितं, सु-विलसत् कह्लार-माला-धृतन्,
स्तुष्टयाभरण-विभूषितं, सु-नयनं कन्या-प्रदानोद्यमम् ।
भक्तानन्द-करं सुरेश्वर-प्रियं मुथुनासने संस्थितम्,
स्रातुं मे मदनारविन्द-सुमदं विश्वावसुं मे गुरुम् क्लीं ।।
।। कवच मूल पाठ ।।
क्लीं कन्याभिः परिवारितं, सु-विलसत् माला-धृतन्-
स्तुष्टयाभरण-विभूषितं, सु-नयनं कन्या-प्रदानोद्यमम् ।
भक्तानन्द-करं सुरेश्वर-प्रियं मिथुनासने संस्थितं,
त्रातुं मे मदनारविन्द-सुमदं विश्वावसुं मे गुरुम् क्लीं ।। 1 ।।
क्लीं विश्वावसु शिरः पातु, ललाटे कन्यकाऽधिपः ।
नेत्रौ मे खेचरो रक्षेद्, मुखे विद्या-धरं न्यसेत् क्लीं ।। 2 ।।
क्लीं नासिकां मे सुगन्धांगो, कपोलौ कामिनी-प्रियः ।
हनुं हंसाननः पातु, कटौ सिंह-कटि-प्रियः क्लीं ।। 3 ।।
क्लीं स्कन्धौ महा-बलो रक्षेद्, बाहू मे पद्मिनी-प्रियः ।
करौ कामाग्रजो रक्षेत्, कराग्रे कुच-मर्दनः क्लीं ।। 4 ।।
क्लीं हृदि कामेश्वरो रक्षेत्, स्तनौ सर्व-स्त्री-काम-जित् ।
कुक्षौ द्वौ रक्षेद् गन्धर्व, ओष्ठाग्रे मघवार्चितः क्लीं ।। 5 ।।
क्लीं अमृताहार-सन्तुष्टो, उदरं मे नुदं न्यसेत् ।
नाभिं मे सततं पातु, रम्भाद्यप्सरसः प्रियः क्लीं ।। 6 ।।
क्लीं कटिं काम-प्रियो रक्षेद्, गुदं मे गन्धर्व-नायकः ।
लिंग-मूले महा-लिंगी, लिंगाग्रे भग-भाग्य-वान् क्लीं ।। 7 ।।
क्लीं रेतः रेताचलः पातु, लिंगोत्कृष्ट-बल-प्रदः ।
दीर्घ-लिंगी च मे लिंगं, भोग-काले विवर्धय क्लीं ।। 8 ।।
क्लीं लिंग-मध्ये च मे पातु, स्थूल-लिंगी च वीर्यवान् ।
सदोत्तिष्ठञ्च मे लिंगो, भग-लिंगार्चन-प्रियः क्लीं ।। 9 ।।
क्लीं वृषणं सततं पातु, भगास्ये वृषण-स्थितः ।
वृषणे मे बलं रक्षेद्, बाला-जंघाधः स्थितः क्लीं ।। 10 ।।
क्लीं जंघ-मध्ये च मे पातु, रम्भादि-जघन-स्थितः ।
जानू मे रक्ष कन्दर्पो, कन्याभिः परिवारितः क्लीं ।। 11 ।।
क्लीं जानू-मध्ये च मे रक्षेन्नारी-जानु-शिरः-स्थितः ।
पादौ मे शिविकारुढ़ः, कन्यकादि-प्रपूजितः क्लीं ।। 12 ।।
क्लीं आपाद-मस्तकं पातु, धृत-कह्लार-मालिका ।
भार्यां मे सततं पातु, सर्व-स्त्रीणां सु-भोगदः क्लीं ।। 13 ।।
क्लीं पुत्रान् कामेश्वरो पातु, कन्याः मे कन्यकाऽधिपः ।
धनं गेहं च धान्यं च, दास-दासी-कुलं तथा क्लीं ।। 14 ।।
क्लीं विद्याऽऽयुः सबलं रक्षेद्, गन्धर्वाणां शिरोमणिः ।
यशः कीर्तिञ्च कान्तिञ्च, गजाश्वादि-पशून् तथा क्लीं ।। 15 ।।
क्लीं क्षेमारोग्यं च मानं च, पथिषु च बालालये ।
वाते मेघे तडित्-पतिः, रक्षेच्चित्रांगदाग्रजः क्लीं ।। 16 ।।
क्लीं पञ्च-प्राणादि-देहं च, मनादि-सकलेन्द्रियान् ।
धर्म-कामार्थ-मोक्षं च, रक्षां देहि सुरेश्वर ! क्लीं ।। 17 ।।
क्लीम रक्ष मे जगतस्सर्वं, द्वीपादि-नव-खण्डकम् ।
दश-दिक्षु च मे रक्षेद्, विश्वावसुः जगतः प्रभुः क्लीं ।। 18 ।।
क्लीं साकंकारां सु-रुपां च, कन्या-रत्नं च देहि मे ।
विवाहं च प्रद क्षिप्रं, भग-भाग्यादि-सिद्धिदः क्लीं ।। 19 ।।
क्लीं रम्भादि-कामिनी-वारस्त्रियो जाति-कुलांगनाः ।
वश्यं देहि त्वं मे सिद्धिं, गन्धर्वाणां गुरुत्तमः क्लीं ।। 20 ।।
क्लीं भग-भाग्यादि-सिद्धिं मे, देहि सर्व-सुखोत्सवः ।
धर्म-कामार्थ-मोक्षं च, ददेहि विश्वावसु प्रभो ! क्लीं ।। 21 ।।
।। फल-श्रुति ।।
इत्येतत् कवचं दिव्यं, साक्षाद् वज्रोपमं परम् ।
भक्तया पठति यो नित्यं, तस्य कश्चिद्भयं नहि ।। 22 ।।
एक-विंशति-श्लोकांश्च, काम-राज-पुटं जपेत् ।
वश्यं तस्य जगत् सर्वं, सर्व-स्त्री-भुवन-त्रयम् ।। 23 ।।
सालंकारां सु-रुपां च, कन्यां दिव्यां लभेन्नरः ।
विवाहं च भवेत् तस्य, दुःख-दारिद्रयं तं नहि ।। 23 ।।
पुत्र-पौत्रादि-युक्तञ्च, स गण्यः श्रीमतां भवेत् ।
भार्या-प्रीतिर्विवर्धन्ति, वर्धनं सर्व-सम्पदाम् ।। 25 ।।
गजाश्वादि-धनं-धान्यं, शिबिकां च बलं तथा ।
महाऽऽनन्दमवाप्नोति, कवचस्य पाठाद् ध्रुवम् ।। 26 ।।
देशं पुरं च दुर्गं च, भूषादि-छत्र-चामरम् ।
यशः कीर्तिञ्च कान्तिञ्च, लभेद् गन्धर्व-सेवनात् ।। 27 ।।
राज-मान्यादि-सम्मानं, बुद्धि-विद्या-विवर्धनम् ।
हेम-रत्नादि-वस्त्रं च, कोश-वृद्धिस्तु जायताम् ।। 28 ।।
यस्य गन्धर्व-सेवा वै, दैत्य-दानव-राक्षसैः ।
विद्याधरैः किंपुरुषैः, चण्डिकाद्या भयं नहि ।। 29 ।।
महा-मारी च कृत्यादि, वेतालैश्चैव भैरवैः ।
डाकिनी-शाकिनी-भूतैर्न भयं कवचं पठेत् ।। 30 ।।
प्रयोगादि-महा-मन्त्र-सम्पदो क्रूर-योगिनाम् ।
राज-द्वारे श्मशाने च, साधकस्य भयं नहि ।। 31 ।।
पथि दुर्गे जलेऽरण्ये, विवादे नृप-दर्शने ।
दिवा-रात्रौ गिरौ मेघे, भयं नास्ति जगत्-त्रये ।। 32 ।।
भोजने शयने भोगे, सभायां तस्करेषु च ।
दुःस्वप्ने च भयं नास्ति, विश्वावसु-प्रसादतः ।। 33 ।।
गजोष्ट्रादि-नखि-श्रृंगि, व्याग्रादि-वन-देवताः ।
खेचरा भूचरादीनां, न भयं कवचं पठेत् ।। 34 ।।
रणे रोगाः न तं यान्ति, अस्त्र-शस्त्र-समाकुले ।
साधकस्य भयं नास्ति, सदेदं कवचं पठेत् ।। 35 ।।
रक्त-द्रव्याणि सर्वाणि, लिखितं यस्तु धारयेत् ।
सभा-राज-पतिर्वश्यं, वश्याः सर्व-कुलांगनाः ।। 36 ।।
रम्भादि-कामिनीः सर्वाः, वश्याः तस्य न संशयः ।
मदन-पुटितं जप्त्वा जप्त्वा च भग-मालिनीं ।। 37 ।।
भग-भाग्यादि-सिद्धिश्च, वृद्धिः तस्य सदा भवेत् ।
बाला-त्रिपुर-सुन्दर्या, पुटितं च पठेन्नरः ।। 38 ।।
सालंकारा सुरुपा च, कन्या भार्यास्तु जायतां ।
बाला प्रौढ़ा च या भार्या, सर्वा-स्त्री च पतिव्रता ।। 39 ।।
गणिका नृप-भार्यादि, जपाद्-वश्यं च जायताम् ।
शत-द्वयोः वर्णकानां, मन्त्रं तु प्रजपेन्नरः ।। 40 ।।
वश्यं तस्य जगत्-सर्वं, नर-नारी-स्व-भृत्य-वत् ।
ध्यानादौ च जपेद्-भानुं, ध्यानान्ते द्वादशं जपेत् ।। 41 ।।
गायत्री दस-वारं च, जपेद् वा कवच पठेत् ।
युग्म-स्तोत्रं पठेन्नित्यं, बाला-त्रिपुरा-सुन्दरीम् ।। 42 ।।
कामजं वंश-गोपालं, सन्तानार्थे सदा जपेत् ।
गणेशास्यालये जप्त्वा, शिवाले भैरवालये ।। 43 ।।
तड़ागे वा सरित्-तीरे, पर्वते वा महा-वने ।
जप्त्वा पुष्प-वटी-दिव्ये, कदली-कयलालये ।। 44 ।।
गुरोरभिमुखं जप्त्वा, न जपेत् कण्टकानने ।
मांसोच्छिष्ट-मुखे जप्त्वा, मदिरा नाग-वल्लिका ।। 45 ।।
जप्त्वा सिद्धिमवाप्नोति, भग-भाग्यादि-सम्पदां ।
देहान्ते स्वर्गमाप्नोति, भुक्त्वा स्वर्गांगना सदा ।। 46 ।।
कल्पान्ते मोक्षमाप्नोति, कैवलं पदवीं न्यसेत् ।
न देयं यस्य कस्यापि, कवचं दिव्यं दिव्यं पार्वति ।। 47 ।।
गुरु-भक्ताय दातव्यं, काम-मार्ग-रताय च ।
देयं कौल-कुले देवि ! सर्व-सिद्धिस्तु जायताम् ।। 48 ।।
भग-भाग्यादि-सिद्धिश्च, सन्तानौ सम्पदोत्सवः ।
विश्वावसु प्रसन्नो च, सिद्धि-वृद्धिर्दिनेदिने ।। 49 ।।
।। इति श्री विश्वावसु गन्धर्व स्तोत्र सम्पूर्णम् ।।